संस्कृतं सङ्गणकस्य उचिता भाषा इत्यस्य कोऽर्थः ?
संस्कृतविषये नासा-संस्थया वस्तुतः किमुक्तम् ?
विद्वान् श्रीरमणशर्मा
संस्कृतं सङ्गणकस्य अत्यन्तम् उचिता/अनुकूला भाषा इति एकं वचनं प्रसिद्धम्। सङ्गणके तन्त्रांशान् (software programming) निर्मातुम् अत्यन्तम् उत्तमा भाषा इयमेवेति च। संस्कृतेनैव सङ्गणकानि मनुष्यैः सह वाचिकसंवादं (verbal input/output) कर्तुं समर्थानि भविष्यन्ति इति च। अतोऽपि बहुविधरूपेण संस्कृतसङ्गणकयोः गाढसम्बन्धः प्रतिज्ञायते। अयं च सर्वोऽपि विषयः अमेरिकायां विद्यमानया अन्तरिक्षसंशोधन-परया नासा-संस्थया एव उक्तः, तत्र च एतद्विषयकं संशोधनं प्रचलति इति च साभिमानम् उद्घृष्यते।
परन्तु अस्याः प्रतिज्ञायाः वस्तुतः कोऽर्थः इति किञ्चित् विमर्शनीयं भवति। यतः वस्तुस्थितिः एवमस्ति -
सङ्गणके संस्कृतेन अद्यावधि तन्त्रांशनिर्माणं न प्रचलति।
सङ्गणकानां किम्बहुना दूरवाणीयन्त्राणामपि मनुष्यैः सह वाचिकसंवादसामर्थ्यंम् एतावता आगतम् एव। परन्तु तत्र संस्कृतस्य किमपि पात्रं नास्ति।
नासा-संस्थया संस्कृतविषये किमपि अधिकृतरूपेण न उद्घोषितम्।
नासा-संस्थायां संस्कृतसंशोधनं न प्रचलति।
पाठकानाम् एतच्छ्रवणेन दुःखं भवेत्। परन्तु यावद् अस्माभिः अन्विष्टं, तथा सत्यमेतदेव। यदि न, कृपया सप्रमाणं निरूप्यतां, तच्च अवश्यम् अङ्गीकरिष्यामः।
संस्कृते बहुविधा: महत्त्वपूर्णा: विषया: वर्तन्ते इत्यत्र नास्ति संशयः। यथा - Logarithm आधारेण सङ्गणस्य कार्यं चलति। ते भास्कराचार्येण संस्कृते लिखिता: सन्ति। तेषां पाठनं नागपुरस्थ: डा.चन्द्रगुप्त: वर्णेकर: करोति। स: पूर्वं पुणेनगरे अभियन्त्रणमहाविद्यालयस्य प्राचार्य: आसीत्। परन्तु तस्य प्रकटीकरणे अस्माभिः कदाचिद् अत्युत्साहवशात् संस्कृतम् अधिकृत्य केचन अभिप्रायाः प्रतिज्ञायन्ते। ताश्च अस्माभिः क्रियमाणाः उद्घोषणा: अस्माभिः समर्थयितुं शक्याः भवेयुः, विचार्यमाणे उपपत्तिमत्यो भवेयुः। नो चेत् क्लेशाय भवति। अस्माभिः अन्येषां पुरतः उच्यमानं समर्थयितुं न शक्यते चेत्, संस्कृते भारतीयसम्प्रदाये वा ये अभिमानिनः ते गौरवभाववशात् तूष्णीं भवेयुः, परन्तु ये अनभिमानिनः, ते उपहसेयुः। संस्कृते गौरवम् उत्पादयितुम् इच्छन्तः यानि वाक्यानि वदामः तान्येव तत्प्रतिकूलं कुर्युः। तस्माद् अस्माभिः उच्यमानं सुष्ठु न वा इति स्वयं विचार्य निश्चित्यैव वाक्यानि वक्तव्यानि। अत एव अधुना अस्याः सुप्रसिद्धायाः प्रतिज्ञायाः परीक्षा क्रियते।
उक्तरीत्या अत्र वक्ष्यमाणं मधुरं न भासेत, किन्तु तिक्तं भवेत्। परन्तु “हितं मनोहारि च दुर्लभं वचः” इति सहित्यवचनम् अनुसृत्य, “सत्यमेव जयते” इति वेदोक्तं ध्येयं मनसि निधाय च इदं परिशीलनीयम् इति युष्मान् अभ्यर्थये।
किं तन्त्रांशनिर्माणं संस्कृतेन क्रियेत ?
अस्माभिः यद् इष्टं तद् यथा सङ्गणकयन्त्रेण क्रियेत तदर्थं सङ्गणके अस्माभिः योजनीयः कश्चिद् अंशः तन्त्रांशः इति स्थूलाद् यन्त्रांशाद् भिन्नतया संस्कृते व्यवह्रियते। उदाहरणाय ईदृशानां लेखनानां सङ्गणके उट्टङ्कनार्थम् एकः तन्त्रांशः अस्ति, तस्य प्रकाशनार्थम् अन्यः तन्त्रांशः, मुद्रणार्थं पुनरपरः इत्येवम्।
तादृशान् तन्त्रांशान् निर्मातुं, सङ्गणकेन अवगन्तुं शक्यया भाषया (machine language) एव वस्तुतः आज्ञाः दातव्याः। परन्तु सा भाषा ०११०१००१ इत्येवमादिरूपा शून्यम् एकम् इति चिह्नद्वयमात्रयुक्ता बहुवर्णोपचित-बहुविधपदघटित-बहुवाक्यप्रयोग-कुशलैः अस्माभिः मनुष्यैः बुद्धौ आरोपयितुम् अतीव दुष्करा। तस्माद् मनुष्यैः ततोऽपि सरलतया अवगन्तुं शक्याः कृत्रिमाः भाषाः आविष्कृताः, याश्च पूर्वमेव निर्मितस्य अन्यस्य तन्त्रांशस्य साहाय्येन सङ्गणकभाषारूपेण परिवर्त्यन्ते, ततः सङ्गणकं ताः आज्ञाः पालयतीति। एताः उच्चस्तरीयभाषाः (high level languages) इत्युच्यन्ते। C, C++, Python इत्येवमादिकाः बहवः उच्चस्तरीयभाषाः वत्सराणां दशकेभ्यः व्यवहारपथि वर्तन्ते, प्रत्यहं सङ्गणकाभिज्ञैः उपयुज्यन्ते नानाविधसामर्थ्यैः प्रवर्धन्ते च। परन्तु सत्यः विषयः एवमस्ति यत् आसाम् अन्यतमाऽपि प्रसिद्धतया उपयुज्यमाना न संस्कृतम् आश्रित्य विरचिता। बहुजनसुखाभ्यासाय एतासु भाषासु प्रायः आङ्गलभाषासदृशानि पदानि उपयुक्तानि। परन्तु तत् सादृश्यम् अतिरिच्य अधिकः आङ्गलभाषासम्बन्धोऽपि तत्र नास्ति, नतरां संस्कृतभाषायाः।
एवं परिशील्यमाने सङ्गणके एतादृशानां भाषाणाम् आविष्कारे अभिवृद्धौ च एतावत्सु वर्षेषु अतियातेषु संस्कृतम् आश्रिता काऽपि सङ्गणकभाषा यदि तथा अत्यन्तानुकूला स्यात्, सा समुदिता भवेत्, न तु सा अस्ति। एवं च सङ्गणके तन्त्रांशनिर्माणाय अत्यन्तम् अनुकूलं संस्कृतम् इति प्रतिज्ञा प्रतिज्ञामात्रतया एव स्थिता।
तर्हि नासा-संस्थया किमुक्तम् ?
नासा-संस्थया अधिकृतरूपेण संस्कृतविषये उद्घृष्टं किमपि वस्तुतो नोपलभ्यते। परन्तु नासा-संस्थायाम् अस्ति कृत्रिमबुद्धिमत्ता (artificial intelligence) संशोधनविभागः। तत्रत्यः मूर्धन्यसंशोधकः रिक् ब्रिग्स् (Rick Briggs) इति नामा १९८५ वर्षे एकं लेखनं प्राकाशयत्। तच्च लेखनम् अत्र उपलब्धुं पठितुं च शक्यते - https://www.aaai.org/ojs/index.php/aimagazine/article/view/466।
इदं च तेन वैयक्तिकसंशोधनात् लिखितमेव। न तु संस्थापरतः संस्कृतसंशोधनाय विहितात् प्रयत्नात्। लेखने तस्य नाम्नः अधः नासा-संस्थायाः नाम अस्तीत्यतः संस्थायाः अत्र सम्बन्धः भासतेे, तावदेव। अपि च अधुना तत्रभवान् लेखकः तस्यां संस्थायां नास्ति इति श्रूयते। न वा ततः परं तत्संस्थागतेन अन्येन किमपि तद्विषये प्रकाशितम् उपलभ्यते। कारणं तु तस्यां संस्थायां तत्संशोधनम् अधिकृतरूपेण न प्रचलति इत्येतदेव।
अस्य लेखनस्य शीर्षकम् अस्ति “संस्कृते ज्ञाननिर्देशप्रकारः, कृत्रिमबुद्धिमत्ता च” (Knowledge Representation in Sanskrit and Artificial Intelligence)। अत्र च प्रतिपादितो विषयः आदौ स्वयं लेखकेनैव साररूपेण निर्दिष्टः अत्र भावतः अनूद्यते -
“मनुष्यभाषाणां सङ्गणकैः अवगमनाय प्रयत्नः क्रियते। तदर्थं मनुष्यभाषावाक्यैः प्रतिपादितस्य विषयस्य असन्दिग्धरूपेण सङ्गणके निर्देशाय गतेषु विंशत्यां वर्षेषु महान् कालः प्रयत्नः धनराशिश्च व्ययीकृतः। मनुष्यभाषाभिः विषयाः असन्दिग्धरूपेण निर्देष्टुं न शक्यन्ते, तदर्थं तु कृत्रिमभाषाः एव अपेक्षिताः इति भावना अस्ति।
परन्तु इयं भावना अवास्तविकी। संस्कृतम् इति या भाषा अस्ति तस्यां न केवलं साहित्यं प्रत्युत तत्त्वज्ञानस्य भाषाविज्ञानस्य चापि परम्परा अस्ति। अस्यां शताब्द्यामपि अयं सम्प्रदायः सुदृढरूपेण परिपाल्यते।
एभिः संस्कृतभाषाविज्ञानिभिः वैयाकरणैः संसाधितः अस्ति तस्या एव भाषायाः शब्दान्तरविन्यासयुक्तः कश्चन प्रकारः। अस्य सार एव न प्रत्युत व्यवस्थारूपमपि अद्यत्वे कृत्रिमबुद्धिमत्तायाम् अस्माभिः अनुस्रियमाणायाः पद्धतेः अनुगुणमस्ति।
अनेन लेखनेन अस्माभिः प्रतिपादयितुम् इष्टम् इदम् अस्ति यत् मनुष्यभाषा कृत्रिमभाषात्वेनापि (तन्नाम सन्दिग्धभाषात्वम् अपहाय असन्दिग्धनिर्देशार्थत्वम् आवाह्य अपि) प्रयोक्तुं शक्यते इति, अपि च सहस्राधिकवर्षेभ्यः प्राक् पूर्वैः कृतमेव अस्माभिः प्रयत्नान्तरेण पुनर्निर्मीयमाणम् अस्ति।”
एवम् आदौ सारं प्रतिपाद्य अग्रेऽपि लेखकः सचित्रं सविस्तरं च इदमेव निरूपयति। प्रथमतः आधुनिकैः वाक्यार्थानाम् असन्दिग्धरूपेण वर्णनाय कीदृशः उपायः आविष्कृतः इति प्रतिपादयति। ततः संस्कृते पाणिनिना व्याकरणस्य निबन्धनं, भर्तृहरेः वाक्यपदीये भाषाविज्ञानस्य प्रकटनम् इत्यादि वक्ति। अन्ततः नवीनवैयाकरणपद्धतौ क्रियाकारकव्यवस्था कथं वर्णिता, क्रियापदानां फलव्यापारप्रतिपादकत्वं कथं, नामपदानां च तत्र कथम् अभिसम्बन्धो भवति इत्यादिकं सविस्तरं वर्णयति। परन्तु एतावति महति परिश्रमे पूर्वैः कृते, ततः परं पाश्चात्त्यैः भारते परतन्त्रीभूते, तैः आविष्कृताभिः भाषाविचारपद्धतिभिः साम्प्रदायिकपद्धतयः क्षयं गताः इत्यपि वदति ! अद्यत्वे (लेखनकाले) तु सम्प्रदायाः पुनरुज्जीव्यमानाः सन्ति इति च उल्लिखति। अन्ततः आधुनिकैः आविष्कृतायाः भाषाविश्लेषणपद्धतेः भारतीयसाम्प्रदायिकपद्धतेश्च भूयसा साम्यं केचिद् अंशेषु वैलक्षण्यं च परिशीलयति।
उपसंहारे च एवं वदति - “प्राचीनाः भारतीयाः एतावता महता प्रयासेन असन्दिग्धतया भाषार्थस्य वर्णनाय किमर्थं प्रवृत्ताः इति विचारः कौतुकम् आवहति। ते सङ्गणकयन्त्ररहिताः परन्तु सङ्गणकविज्ञानिनः इति भासते। भारतीयैः कृतानां महतां योगदानानां मध्ये शून्याङ्कस्य आविष्करणम् एकम् अत्यन्तं प्रधानं वर्तते इति अस्माभिः न विस्मर्तव्यम् । शून्याङ्कविषयं च, द्व्यङ्कसङ्ख्या (binary number) व्यवस्थां च परः सहस्रवर्षकालात् प्रागेव ते आविष्कृतवन्तः, ततः परमेव पाश्चात्त्यैः पुनराविष्कृतम्। मनुष्यबुद्धिमत्तायाः कृत्रिमबुद्धिमत्तायाश्च कियान् भेदः इत्यत्र तैः कृतं भाषायाः विश्लेषणं नूतनान् विचारान् स्फोरयति, अपि च कृत्रिमबुद्धिमत्तया कथं मनुष्यभाषाणां विश्लेषणं क्रियेत, यन्त्रद्वारा कथम् अनुवादाः सम्भवेयुः इत्यत्र मार्गदर्शनं कुर्यात्”।
उपसंहारः
उपर्युक्तं लेखनं १९८५ वर्षे लिखितम् इति स्मर्तव्यम् - ३४ वर्षेभ्यः प्राक्। अधुना अस्माकं हस्ते विद्यमाना दूरवाणी अस्माभिः वाचा उक्तान् सरलान् विषयान् अवगत्य प्रत्युत्तरं दातुं समर्था वर्तते - “श्वः वृष्टिः भविष्यति वा?” “मम कार्यालयं प्रति गमनस्य मार्गे उपरोधः कोऽपि वर्तते वा?” “इतः समीपे भोजनालयः कुत्रास्ति?” इत्यादीनि । (परन्तु संस्कृतभाषायां न, आङ्गलभाषायां, स्याच्च अन्यासु कासुचिद् वैदेशिकीषु।)
एवं च लेखनकालापेक्षया अद्य सङ्गणकद्वारा मनुष्यभाषावगमे बहुविधा प्रगतिः अस्ति इत्यत्र नास्ति संशयः। परन्तु तत्र संस्कृतस्य पात्रं कियता प्रमाणेन वर्तते इति वक्तुं न शक्यते। न खलु गूगल-मैक्रोसाफ्ट-एप्पिल-संस्थाभिः वा प्रकटितं समस्ति यत् तैः निर्मीयमाणानि कृत्रिमबुद्धिमत्तया युक्तानि दूरवाणीसङ्गणकादियन्त्राणि अन्तः संस्कृतम् आश्रित्य कार्यं कुर्वन्ति इति । तेषां भाषासम्बन्धिनाम् अवगम-अनुवादादि-प्रतिभाषणादि-तन्त्रांशानाम् अन्तःस्वरूपं बौद्धिकसम्पत् (intellectual property) इति नाम्ना हिरण्यमिव गुप्तमेव परिपाल्यते तैः। तस्माद् अस्मिन् विषयेऽपि अस्माकं सुदृढं प्रमाणं किमपि नास्ति।
तस्माद् “नासा-संस्थायां तदा कार्यं कुर्वता विज्ञानिना वैयक्तिकसंशोधनवशात् संस्कृतगतं भाषाविज्ञानं बहुधा प्रशस्तम्” इत्येतावदेव सप्रमाणं प्रतिज्ञातुं शक्यते इति उपलभ्यमानानां प्रमाणानां परिशीलनेन ज्ञायते। अतोऽपि अधिकं वक्तुं किमपि प्रमाणं यदि स्यात्, तर्हि तस्य प्रथमतः प्रकटनं कृत्वा ततः परमेव वयं सधैर्यम् अन्याः घोषणा: अपि कर्तुं शक्नुयाम इति शम्।
-०-०-०-